(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Aadiparv (Mahabharat) - आदिपर्व (महाभारत)


॥ श्रीः ॥
1.248. अध्यायः 248
(अथ खाण्डवदाहपर्व ॥ 18 ॥)
Mahabharata - Adi Parva - Chapter Topics
युधिष्ठिरस्य राज्यपरिपालनप्रकारवर्णनम्॥ 1 ॥
तत्रैव निवसता श्रीकृष्णेन सहार्जुनस्य जलक्रीडार्थं यमुनां प्रति गमनम्॥ 2 ॥
सस्त्रीकयोस्तयोर्जलक्रीडावर्णनम्॥ 3 ॥ ब्राह्मणरूपस्याग्नेस्तत्रागमनम्॥ 4 ॥
Mahabharata - Adi Parva - Chapter Text

वैशम्पायन उवाच। 1-248-0x(1314)(10774)
इन्द्रप्रस्थे वसन्तस्ते जघ्रुरन्यान्नराधिपान्।
शासनाद्धृतराष्ट्रस्य राज्ञः शान्तनवस्य च॥ 1-248-1(10775)
आश्रित्य धर्मराजानं सर्वलोकोऽवसत्सुखम्।
पुण्यलक्षणकर्माणं स्वदेहमिव देहिनः॥ 1-248-2(10776)
स समं धर्मकामार्थान्सिषेवे भरतर्षभ।
त्रीनिवात्मसमान्बन्धून्नीतिमानिव मानयन्॥ 1-248-3(10777)
तेषां समविभक्तानां क्षितौ देहवतामिव।
बभौ धर्मार्थकामानां चतुर्थ इव पार्थिवः॥ 1-248-4(10778)
अध्येतारं परं वेदान्प्रयोक्तारं महाध्वरे।
रक्षितारं शुभाँल्लोकाँल्लोभिरे तं जनाधिपम्॥ 1-248-5(10779)
अधिष्ठानवती लक्ष्मीः परायणवती मतिः।
वर्धमानोऽखिलो धर्मस्तेनासीत्पृथिवीक्षिताम्॥ 1-248-6(10780)
भ्रातृभिः सहितौ राजा चतुर्भिरधिकं बभौ।
प्रयुज्यमानैर्विततो वेदैरिव महाध्वरः॥ 1-248-7(10781)
तं तु धौम्यादयो विप्राः परिवार्योपतस्थिरे।
बृहस्पतिसमा मुख्याः प्रजापतिमिवामराः॥ 1-248-8(10782)
धर्मराजे ह्यतिप्रीत्या पूर्णचन्द्र इवामले।
प्रजानां रेमिरे तुल्यं नेत्राणि हृदयानि च॥ 1-248-9(10783)
न तु केवलदैवेन प्रजा भावेन रेमिरे।
यद्बभूव मनःकान्तं कर्मणा स चकार तत्॥ 1-248-10(10784)
न ह्ययुक्तं न चासत्यं नासह्यं न च वाऽप्रियम्।
भाषितं चारुभाषस्य जज्ञे पार्थस्य धीमतः॥ 1-248-11(10785)
स हि सर्वस्य लोकस्य हितमात्मन एव च।
चिकीर्षन्सुमहातेजा रेमे भरतसत्तम॥ 1-248-12(10786)
तथा तु मुदिताः सर्वे पाण्डवा विगतज्वराः।
अवसन्पृथिवीपालाँस्तापयन्तः स्वतेजसा॥ 1-248-13(10787)
ततः कतिपयाहस्य बीभत्सुः कृष्णमब्रवीत्।
उष्णानि कृष्ण वर्तन्ते गच्छावो यमुनां प्रति॥ 1-248-14(10788)
सुहृज्जनवृतौ तत्र विहृत्य मधुसूदन।
सायाह्ने पुनरेष्यावो रोचतां ते जनार्दन॥ 1-248-15(10789)
वासुदेव उवाच। 1-248-16x(1315)
कुन्तीमातर्ममाप्येतद्रोचते यद्वयं जले।
सुहृज्जनवृताः पार्थ विहरेम यथासुखम्॥ 1-248-16(10790)
वैशम्पायन उवाच। 1-248-17x(1316)
आमन्त्र्य तौ धर्मराजमनुज्ञाप्य च भारत।
जग्मतुः पार्थगोविन्दौ सुहृज्जनवृतौ ततः॥ 1-248-17(10791)
`विहरन्खाण्डवप्रस्थे काननेषु च माधवः।
पुष्पितोपवनां दिव्यां ददर्श यमुनां नदीम्॥ 1-248-18(10792)
तस्यास्तीरे वनं दिव्यं सर्वर्तुसुमनोहरम्।
आलयं सर्वभूतानां खाण्डवं खड्गचर्मभृत्॥ 1-248-19(10793)
ददर्श कृत्स्नं तं देशं सहितः सव्यसाचिना।
ऋक्षगोमायुशार्दूलवृककृष्णमृगान्वितम्॥ 1-248-20(10794)
शाखामृगगणैर्जुष्टं गजद्वीपिनिषेवितम्।
शकबर्हिणदात्यूहहंससारसनादितम्॥ 1-248-21(10795)
नानामृगसहस्रैश्च पक्षिभिश्च समावृतम्।
मानार्हं तच्च सर्वेषां देवदानवरक्षसाम्॥ 1-248-22(10796)
आलयं पन्नगेन्द्रस्य तक्षकस्य महात्मनः।
वेणुशाल्मलिबिल्वातिमुक्तजंब्वाम्रचम्पकैः॥ 1-248-23(10797)
अङ्कोलपनसाश्वत्थतालजम्बीरवञ्जुलैः।
एकपद्मकतालैश्च शतशश्चैव रौहिणैः॥ 1-248-24(10798)
नानावृक्षैः समायुक्तं नानागुल्मसमावृतम्।
वेत्रकीचकसंयुक्तमाशीविषनिषेवितम्॥ 1-248-25(10799)
विगतार्कं महाभोगविततद्रुमसङ्कटम्।
व्यालदंष्ट्रिगणाकीर्णं वर्जितं सर्वमानुषैः॥ 1-248-26(10800)
रक्षसां भुजगेन्द्राणां पक्षिणां च महालयम्।
खाण्डवं सुमहाप्राज्ञः सर्वलोकविभागवित्॥ 1-248-27(10801)
दृष्टवान्सर्वलोकेश अर्जुनेन समन्वितः।
पीताम्बरधरो देवस्तद्वनं बहुधा चरन्॥ 1-248-28(10802)
सद्रुमस्य सयक्षस्य सभूतगणपक्षिणः।
खाण्डवस्य विनाशं तं ददर्श मधुसूदनः॥' 1-248-29(10803)
विहारदेशं संप्राप्य नानाद्रुममनुत्तमम्।
गृहैरुच्चावचैर्युक्तं पुरन्दरपुरोपमम्॥ 1-248-30(10804)
भक्ष्यैर्भोज्यैश्च पेयैश्च रसवद्बिर्महाधनैः।
माल्यैश्च विविधैर्गन्धैस्तथा वार्ष्मेयपाण्डवौ॥ 1-248-31(10805)
तदा विविशतुः पूर्णं रत्नैरुच्चावचैः शुभैः।
यथोपजोषं सर्वश्च जनश्चिक्रीड भारत॥ 1-248-32(10806)
स्त्रियश्च विपुलश्रोष्ण्यश्चारुपीनपयोधराः।
मदस्खलितगामिन्यश्चिक्रीडुर्वामलोचनाः॥ 1-248-33(10807)
वने काश्चिज्जले काश्चित्काश्चिद्वेश्मसु चाङ्गनाः।
यथादेशं यथाप्रीति चिक्रीडुः पार्थकृष्णयोः॥ 1-248-34(10808)
वासुदेवप्रिया नित्यं सत्यभामा च भामिनी।
द्रौपदी च सुभद्रा च वासांस्याभरणानि च।
प्रायच्छन्त महाराज स्त्रीणां ताः स्म मदोत्कटाः॥ 1-248-35(10809)
काश्चित्प्रहृष्टा ननृतुश्चुक्रुशुश्च तथा पराः।
जहसुश्च परा नार्यः पपुश्चान्या वरासवम्॥ 1-248-36(10810)
रुरुधुश्चापरास्तत्र प्रजघ्नुश्च परस्परम्।
मन्त्रयामासुरन्याश्च रहस्यानि परस्परम्॥ 1-248-37(10811)
वेणुवीणामृदङ्गानां मनोज्ञानां च सर्वशः।
शब्देन पूर्यते हर्म्यं तद्वनं सुमहर्द्धिमत्॥ 1-248-38(10812)
तस्मिंस्तदा वर्तमानो कुरुदाशार्हनन्दनौ।
समीपं जग्मतुः कंचिदुद्देशं सुमनोहरम्॥ 1-248-39(10813)
तत्र गत्वा महात्मानौ कृष्णौ परपुरञ्जयौ।
महार्हासनयो राजंस्ततस्तौ सन्निषीदतुः॥ 1-248-40(10814)
तत्र पूर्वव्यतीतानि विक्रान्तानीतराणि च।
बहूनि कथयित्वा तौ रेमाते पार्थमाधवौ॥ 1-248-41(10815)
तत्रोपविष्टौ मुदितौ नाकपृष्ठेऽश्विनाविव।
अभ्यागच्छत्तदा विप्रो वासुदेवधनञ्जयौ॥ 1-248-42(10816)
बृहच्छालप्रतीकाशः प्रतप्तकनकप्रभः।
हरिपिङ्गोज्ज्वलश्मश्रुः प्रमाणायामतः समः॥ 1-248-43(10817)
तरुणादित्यसङ्काशश्चीरवासा जटाधरः।
पद्मपत्राननः पिङ्गस्तेजसा प्रज्वलन्निव॥ 1-248-44(10818)
जगाम तौ कृष्णपार्थौ दिधक्षुः खाण्डवं वनम्।
उपसृष्टं तु तं कृष्णो भ्राजमानं द्विजोत्तमम्।
अर्जनो वासुदेवश्च तूर्णमुत्पत्य तस्थतुः॥ ॥ 1-248-45(10819)

इति श्रीमन्महाभारते आदिपर्वणि खाण्डवदाहपर्वणि अष्टचत्वारिंशदधिकद्विशततमोऽध्यायः॥ 248 ॥

Mahabharata - Adi Parva - Chapter Footnotes
1-248-14 उष्णानि निधाधदिनानि॥ 1-248-16 कुन्ती माता यस्येति नेकुन्तामातर्हेऽर्जुन॥ 1-248-30 गृहैः मध्येयमुनं निर्मितैः क्रीडावाप्यादियुक्तैः॥ 1-248-39 उद्देशं प्रदेशम्॥ 1-248-43 हरिपिङ्गः नीलपीताखिलाङ्गः। ज्वलश्मश्रुः ज्वालावत्पीतश्मश्रुः॥ अष्टचत्वारिंशदधिकद्विशततमोऽध्यायः॥ 248 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.