|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.248. अध्यायः 248
(अथ खाण्डवदाहपर्व ॥ 18 ॥)
Mahabharata - Adi Parva - Chapter Topics
युधिष्ठिरस्य राज्यपरिपालनप्रकारवर्णनम्॥ 1 ॥
तत्रैव निवसता श्रीकृष्णेन सहार्जुनस्य जलक्रीडार्थं यमुनां प्रति गमनम्॥ 2 ॥
सस्त्रीकयोस्तयोर्जलक्रीडावर्णनम्॥ 3 ॥ ब्राह्मणरूपस्याग्नेस्तत्रागमनम्॥ 4 ॥
Mahabharata - Adi Parva - Chapter Text
वैशम्पायन उवाच। 1-248-0x(1314)(10774)
इन्द्रप्रस्थे वसन्तस्ते जघ्रुरन्यान्नराधिपान्।
शासनाद्धृतराष्ट्रस्य राज्ञः शान्तनवस्य च॥ 1-248-1(10775)
आश्रित्य धर्मराजानं सर्वलोकोऽवसत्सुखम्।
पुण्यलक्षणकर्माणं स्वदेहमिव देहिनः॥ 1-248-2(10776)
स समं धर्मकामार्थान्सिषेवे भरतर्षभ।
त्रीनिवात्मसमान्बन्धून्नीतिमानिव मानयन्॥ 1-248-3(10777)
तेषां समविभक्तानां क्षितौ देहवतामिव।
बभौ धर्मार्थकामानां चतुर्थ इव पार्थिवः॥ 1-248-4(10778)
अध्येतारं परं वेदान्प्रयोक्तारं महाध्वरे।
रक्षितारं शुभाँल्लोकाँल्लोभिरे तं जनाधिपम्॥ 1-248-5(10779)
अधिष्ठानवती लक्ष्मीः परायणवती मतिः।
वर्धमानोऽखिलो धर्मस्तेनासीत्पृथिवीक्षिताम्॥ 1-248-6(10780)
भ्रातृभिः सहितौ राजा चतुर्भिरधिकं बभौ।
प्रयुज्यमानैर्विततो वेदैरिव महाध्वरः॥ 1-248-7(10781)
तं तु धौम्यादयो विप्राः परिवार्योपतस्थिरे।
बृहस्पतिसमा मुख्याः प्रजापतिमिवामराः॥ 1-248-8(10782)
धर्मराजे ह्यतिप्रीत्या पूर्णचन्द्र इवामले।
प्रजानां रेमिरे तुल्यं नेत्राणि हृदयानि च॥ 1-248-9(10783)
न तु केवलदैवेन प्रजा भावेन रेमिरे।
यद्बभूव मनःकान्तं कर्मणा स चकार तत्॥ 1-248-10(10784)
न ह्ययुक्तं न चासत्यं नासह्यं न च वाऽप्रियम्।
भाषितं चारुभाषस्य जज्ञे पार्थस्य धीमतः॥ 1-248-11(10785)
स हि सर्वस्य लोकस्य हितमात्मन एव च।
चिकीर्षन्सुमहातेजा रेमे भरतसत्तम॥ 1-248-12(10786)
तथा तु मुदिताः सर्वे पाण्डवा विगतज्वराः।
अवसन्पृथिवीपालाँस्तापयन्तः स्वतेजसा॥ 1-248-13(10787)
ततः कतिपयाहस्य बीभत्सुः कृष्णमब्रवीत्।
उष्णानि कृष्ण वर्तन्ते गच्छावो यमुनां प्रति॥ 1-248-14(10788)
सुहृज्जनवृतौ तत्र विहृत्य मधुसूदन।
सायाह्ने पुनरेष्यावो रोचतां ते जनार्दन॥ 1-248-15(10789)
वासुदेव उवाच। 1-248-16x(1315)
कुन्तीमातर्ममाप्येतद्रोचते यद्वयं जले।
सुहृज्जनवृताः पार्थ विहरेम यथासुखम्॥ 1-248-16(10790)
वैशम्पायन उवाच। 1-248-17x(1316)
आमन्त्र्य तौ धर्मराजमनुज्ञाप्य च भारत।
जग्मतुः पार्थगोविन्दौ सुहृज्जनवृतौ ततः॥ 1-248-17(10791)
`विहरन्खाण्डवप्रस्थे काननेषु च माधवः।
पुष्पितोपवनां दिव्यां ददर्श यमुनां नदीम्॥ 1-248-18(10792)
तस्यास्तीरे वनं दिव्यं सर्वर्तुसुमनोहरम्।
आलयं सर्वभूतानां खाण्डवं खड्गचर्मभृत्॥ 1-248-19(10793)
ददर्श कृत्स्नं तं देशं सहितः सव्यसाचिना।
ऋक्षगोमायुशार्दूलवृककृष्णमृगान्वितम्॥ 1-248-20(10794)
शाखामृगगणैर्जुष्टं गजद्वीपिनिषेवितम्।
शकबर्हिणदात्यूहहंससारसनादितम्॥ 1-248-21(10795)
नानामृगसहस्रैश्च पक्षिभिश्च समावृतम्।
मानार्हं तच्च सर्वेषां देवदानवरक्षसाम्॥ 1-248-22(10796)
आलयं पन्नगेन्द्रस्य तक्षकस्य महात्मनः।
वेणुशाल्मलिबिल्वातिमुक्तजंब्वाम्रचम्पकैः॥ 1-248-23(10797)
अङ्कोलपनसाश्वत्थतालजम्बीरवञ्जुलैः।
एकपद्मकतालैश्च शतशश्चैव रौहिणैः॥ 1-248-24(10798)
नानावृक्षैः समायुक्तं नानागुल्मसमावृतम्।
वेत्रकीचकसंयुक्तमाशीविषनिषेवितम्॥ 1-248-25(10799)
विगतार्कं महाभोगविततद्रुमसङ्कटम्।
व्यालदंष्ट्रिगणाकीर्णं वर्जितं सर्वमानुषैः॥ 1-248-26(10800)
रक्षसां भुजगेन्द्राणां पक्षिणां च महालयम्।
खाण्डवं सुमहाप्राज्ञः सर्वलोकविभागवित्॥ 1-248-27(10801)
दृष्टवान्सर्वलोकेश अर्जुनेन समन्वितः।
पीताम्बरधरो देवस्तद्वनं बहुधा चरन्॥ 1-248-28(10802)
सद्रुमस्य सयक्षस्य सभूतगणपक्षिणः।
खाण्डवस्य विनाशं तं ददर्श मधुसूदनः॥' 1-248-29(10803)
विहारदेशं संप्राप्य नानाद्रुममनुत्तमम्।
गृहैरुच्चावचैर्युक्तं पुरन्दरपुरोपमम्॥ 1-248-30(10804)
भक्ष्यैर्भोज्यैश्च पेयैश्च रसवद्बिर्महाधनैः।
माल्यैश्च विविधैर्गन्धैस्तथा वार्ष्मेयपाण्डवौ॥ 1-248-31(10805)
तदा विविशतुः पूर्णं रत्नैरुच्चावचैः शुभैः।
यथोपजोषं सर्वश्च जनश्चिक्रीड भारत॥ 1-248-32(10806)
स्त्रियश्च विपुलश्रोष्ण्यश्चारुपीनपयोधराः।
मदस्खलितगामिन्यश्चिक्रीडुर्वामलोचनाः॥ 1-248-33(10807)
वने काश्चिज्जले काश्चित्काश्चिद्वेश्मसु चाङ्गनाः।
यथादेशं यथाप्रीति चिक्रीडुः पार्थकृष्णयोः॥ 1-248-34(10808)
वासुदेवप्रिया नित्यं सत्यभामा च भामिनी।
द्रौपदी च सुभद्रा च वासांस्याभरणानि च।
प्रायच्छन्त महाराज स्त्रीणां ताः स्म मदोत्कटाः॥ 1-248-35(10809)
काश्चित्प्रहृष्टा ननृतुश्चुक्रुशुश्च तथा पराः।
जहसुश्च परा नार्यः पपुश्चान्या वरासवम्॥ 1-248-36(10810)
रुरुधुश्चापरास्तत्र प्रजघ्नुश्च परस्परम्।
मन्त्रयामासुरन्याश्च रहस्यानि परस्परम्॥ 1-248-37(10811)
वेणुवीणामृदङ्गानां मनोज्ञानां च सर्वशः।
शब्देन पूर्यते हर्म्यं तद्वनं सुमहर्द्धिमत्॥ 1-248-38(10812)
तस्मिंस्तदा वर्तमानो कुरुदाशार्हनन्दनौ।
समीपं जग्मतुः कंचिदुद्देशं सुमनोहरम्॥ 1-248-39(10813)
तत्र गत्वा महात्मानौ कृष्णौ परपुरञ्जयौ।
महार्हासनयो राजंस्ततस्तौ सन्निषीदतुः॥ 1-248-40(10814)
तत्र पूर्वव्यतीतानि विक्रान्तानीतराणि च।
बहूनि कथयित्वा तौ रेमाते पार्थमाधवौ॥ 1-248-41(10815)
तत्रोपविष्टौ मुदितौ नाकपृष्ठेऽश्विनाविव।
अभ्यागच्छत्तदा विप्रो वासुदेवधनञ्जयौ॥ 1-248-42(10816)
बृहच्छालप्रतीकाशः प्रतप्तकनकप्रभः।
हरिपिङ्गोज्ज्वलश्मश्रुः प्रमाणायामतः समः॥ 1-248-43(10817)
तरुणादित्यसङ्काशश्चीरवासा जटाधरः।
पद्मपत्राननः पिङ्गस्तेजसा प्रज्वलन्निव॥ 1-248-44(10818)
जगाम तौ कृष्णपार्थौ दिधक्षुः खाण्डवं वनम्।
उपसृष्टं तु तं कृष्णो भ्राजमानं द्विजोत्तमम्।
अर्जनो वासुदेवश्च तूर्णमुत्पत्य तस्थतुः॥ ॥ 1-248-45(10819)
इति श्रीमन्महाभारते आदिपर्वणि खाण्डवदाहपर्वणि अष्टचत्वारिंशदधिकद्विशततमोऽध्यायः॥ 248 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-248-14 उष्णानि निधाधदिनानि॥ 1-248-16 कुन्ती माता यस्येति नेकुन्तामातर्हेऽर्जुन॥ 1-248-30 गृहैः मध्येयमुनं निर्मितैः क्रीडावाप्यादियुक्तैः॥ 1-248-39 उद्देशं प्रदेशम्॥ 1-248-43 हरिपिङ्गः नीलपीताखिलाङ्गः। ज्वलश्मश्रुः ज्वालावत्पीतश्मश्रुः॥ अष्टचत्वारिंशदधिकद्विशततमोऽध्यायः॥ 248 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|